(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.88. अध्यायः 088
Mahabharata - Vana Parva - Chapter Topics
धौम्येन युधिष्ठिरंप्रत्युदीचीस्थतीर्थकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
धौम्य उवाच। 3-88-0x(1997)(19678)
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै।
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥ 3-88-1(19679)
शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो।
कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम् ॥ 3-88-2(19680)
सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी।
समुद्रगा महावेगा यमुना यत्र पाण्डव ॥ 3-88-3(19681)
यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम्।
यत्रसारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥ 3-88-4(19682)
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ।
सहदेवोऽयजद्यत्रशम्याक्षेपेण भारत ॥ 3-88-5(19683)
एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर।
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥ 3-88-6(19684)
अग्नयः सहदेवेन ये चिता यमुनामनु।
ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः ॥ 3-88-7(19685)
तत्रैव भरतो राजा चक्रवर्ती महायशाः।
विंशतीं सप्त चाष्टौ च हयमेधानुपाहरत् ॥ 3-88-8(19686)
कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा।
अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः ॥ 3-88-9(19687)
सरस्वती नदी सद्भिः सततं पार्थ पूजिता।
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥ 3-88-10(19688)
दृषद्वती महापुण्या यत्र रख्याता युधिष्ठिर।
न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्योद्विपदांवर।
दाल्भ्यघोषश्च दाल्भ्याश् धरणीस्थो महात्मनः ॥ 3-88-11(19689)
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ 3-88-12(19690)
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप।
ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम ॥ 3-88-13(19691)
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा।
विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः ॥ 3-88-14(19692)
ऋषिर्महान्महाभागो जमदग्निर्महायशाः।
पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः ॥ 3-88-15(19693)
यत्रसर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम्।
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥ 3-88-16(19694)
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ।
इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः ॥ 3-88-17(19695)
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः।
आगम्य सरितो विप्रान्मधुना समतर्पयन् ॥ 3-88-18(19696)
गन्धर्वयक्षरक्षोबिरप्सरोभिश्च सेवितम्।
किरातकिन्नरावासं शैलं शिखरिणांवरम् ॥ 3-88-19(19697)
बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर।
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥ 3-88-20(19698)
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा।
पर्वतश्च पुरुर्नाम यत्रयातः पुरूरवाः ॥ 3-88-21(19699)
भृगुर्यत्रतपस्तेपे महर्षिगणसेविते।
राजन्स आश्रमः ख्यातो भृगुतुन्दो महागिरिः ॥ 3-88-22(19700)
यः स भूतं भविष्यच्च भवच् भरतर्षभ।
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥ 3-88-23(19701)
तस्यातियशसः पुण्यां विशालां बदरीमनु।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ 3-88-24(19702)
उष्णतोयवहा गङ्गा शीततोयवहा पुरा।
सुवर्णसिकता राजन्विशालां बदरीमनु ॥ 3-88-25(19703)
ऋषयो यत्रदेवाश्च महाभागा महौजसः।
प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम् ॥ 3-88-26(19704)
यत्रनाराजणो देवः परमात्मा सनातनः।
तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च ॥ 3-88-27(19705)
तत्पुण्यं परमं ब्रह्म तत्तीर्थं त्तपोवनम्।
तत्परं परमं देवं भूतानां परमेश्वरम् ॥ 3-88-28(19706)
शाश्वतं परमं चैव धातारं परमं पदम्।
यं विदित्वान शोचन्ति विद्वांसः शास्त्रदृष्टयः ॥ 3-88-29(19707)
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः ॥ 3-88-30(19708)
पुण्यानामपि तत्पुण्यमत्र ते संशयेस्तु मा।
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते।
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥ 3-88-31(19709)
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः।
ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः ॥ 3-88-32(19710)
3-88-33(19711)
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः।
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-88-7 शतं शतसहस्राणि सहस्रशतदक्षिणाः इति क. ध. पाठः ॥ 3-88-9 शंकरस्तत्रविश्रुत इति क. ध. पाठः ॥ 3-88-13 एता कृष्णमृगी तद्वर्णै कृष्णौ नरनारायणावित्यर्थः। वस्तुतस्त्ववर्णौ वर्णाः लोहितशुक्लकृष्णाः रजःसत्वतमांसि तद्रहितौ। तत्र वैवर्ण्यवर्ण्यौ चेति क. ध. पाठः ॥ 3-88-23 प्रभुर्जिष्णुरिति क. पाठः ॥ 3-88-24 विशालां नामतः। बदरीमनु बदरीसमीपे ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.